Vasudeva Sutam Devam [Krishnashtakam] _ Shri Krishna Stotram _ with Sanskrit lyrics
Peaceful Lord Krishna Bhajan. Composed by sage Adi Shankaracharya
LYRICS:
वसुदेवसुतं देवं कंस चाणूर मर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
अतसी पुष्प सङ्काशं हार नूपुर शोभितम् ।
रत्नकङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ॥
कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् ।
विलसत्कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ॥
मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् ।
बर्हिपिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥
उत्फुल्लपद्मपत्राक्षं नील जीमूत सन्निभम् ।
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ॥
रुक्मिणीकेलिसंयुक्तं पीताम्बर सुशोभितम् ।
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ॥
गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् ।
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥
श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् ।
शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम् ॥
कृष्णाष्टकमिदंपुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥
================================================
INFO:
Track: Krishnashtakam
Album: Sri Krsna Sowthrani - Vol.1
Performers: Various Artists
Music: Radha Gopi