Suivant

Chandrashekara Ashtakam - with lyrics - Lord Shiva Stotram

4 Vues· 09/16/22
sacredverses
sacredverses
1 Les abonnés
1
Dans La musique

⁣Chandrashekara Chandrashekara Pahimam!!

The Chandrashekara Ashtakam is believed to have been written by Sage Markandeya, a Hindu sage who was saved by Chandrashekara [Lord Shiva] from Yama [Lord of Death] at the age of 16.

===============================================

TEXT:

रत्नसानुशरासनं रजताद्रिशृङ्गनिकॆतनं
शिञ्जिनीकृतपन्नगॆश्वरमच्युताननसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

पंचपादपपुष्पगन्धपदाम्बुजद्वयशॊभितं
फाललॊचनजातपावकदग्द्धमन्मथविग्रहम् ।
भस्मदिग्द्धकलॆबरं भवनाशनं भवमव्ययं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

मत्तवारणमुख्यचर्मकृतॊत्तरीयमनॊहरं
पङ्कजासन पद्मलॊचनपूजितांघ्रिसरॊरुहम् ।
दॆवसिन्धुतरंगशीकरसिक्तशुभ्रजटाधरं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

यक्षराजसखं भगाक्षहरं भुजंगविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलॆबरम् ।
क्ष्वॆलनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

कुण्डलीकृतकुण्डलीश्वरमण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनॆश्वरम ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

भॆषजं भवरॊगिणामखिलापदामपहारिणं
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलॊचनम् ।
भुक्ति मुक्ति फलप्रदं सकलाघसंघनिबर्हणं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं परात्परमप्रमॆयमनुत्तमम् ।
सॊमवारिनभूहुताशनसॊमपानिलखाकृतिं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

विश्वसृष्टिविधायिनं पुनरॆव पालनतत्परं
संहरन्तमपि प्रपञ्चमशॆषलॊकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमन्वितं
चन्द्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥

मृत्युभीतमृकण्डुसूनुकृतस्तवं शिवसन्निधौ
यत्र कुत्र च यः पठॆन्न हि तस्य मृत्युभयं भवॆत् ।
पूर्णमायुररॊगतामखिलार्थसंपदमादरात्
चन्द्रशॆखर एव तस्य ददाति मुक्तिमयत्नतः ॥

===============================================

INFO:
Track: Chandra sekaraashtakam
Album: Shiva Stuthi Vol - 2
Artist: T S Ranganathan

Montre plus

 0 commentaires sort   Trier par

Suivant